अद्य आवयोः ज्यायसी कन्या शुचिता केषां छात्राणां विषये अचर्चयत्। अहं अकथयं ते सर्वे आतन्कवादिनः सन्ति इति। इति कथित्वा अहम् एकस्मिन् कक्षे प्राणायामं कर्तुं उपाविशम्। सा तत् ना जानाति स्म सा अमन्यत् अहं नीचैः अगच्छम् इति। किञ्चित् कालपरं सा तस्याः कनीयसी भगिनीम् अवदत् - अपि त्वया श्रुतम् आवयोः पिता कीदृशः दक्षिणपंथी अस्ति?
२००८-०८-२४ रविवासरः (2008-08-24 Sunday)
बुधवासरे प्रातःकाले नवसारीनगरे गुर्जरप्रदेशे भारतदेशे अस्माकं मित्रस्य कनुवर्यस्य माता दिवं गता। कनुवर्यः तेन परिवारेण सह केन्बरानगरे निवसति। तस्य माता तस्य भगिनीभ्यां सह नवसारीनगरे न्यवसत्। मम पितरौ पुरा नवसारीनगरे न्यवसताम्। यदा अहं नवसारीनगरम् अगच्छं तदा तया सह अमिलम्। सा अतिसरलस्वाभावशाली महिला आसीत्। अद्य वयं कनुवर्यं मिलनाय तस्य गृहम् अगच्छम्।
२००८-०८-२२ शुक्रवासरः (2008-08-22 Friday)
अहं बाल्यकालात् प्रभृति ग्रन्थप्रेमी आसम्। अद्य आवयोः ज्यायसी कन्या अवदत् मम पुस्तकालय-तालिका कथं द्रष्टव्यम् इति ज्ञातुं एकः वर्षः अभवत् इति। तत् श्रुत्वा आवयोः कनीयसी कन्या अवदत् अहं पुस्तकालय-तालिका किम् अस्ति इति अपि न अजानम् इति। मम पुस्तकप्रेमिनः गृहे ईदृशे कन्ये कथम् आगच्छताम्।
२००८-०८-२० बुधवासरः (2008-08-20 Wednesday)
अद्य मया एकायां परिषदि हिन्दूजनानां वृद्धावस्थायां कथं पालनं कर्तव्यम् इति विषये प्रवचनं दत्तम्। प्रवचने अहं वर्णाश्रमानां अचर्चयं तत् परं सर्वं खलु इदं ब्रह्म इति मतं अकथयम् तत् परं नेति-नेति इति विवेकमार्गस्य वर्णनम् अकरवम्।
२००८-०८-१९ मङ्गलवासरः (2008-08-19 Tuesday)
अद्य अहं गृहे एव अतिष्ठं कार्यालयं नागच्छम्। सम्पूर्णदिवसे मम छात्रस्य जेवियरवर्यस्य शोधग्रन्थम् एव अपठम्। सः आगामिनि सप्ताहे तस्य शोधग्रन्थं परीक्षार्थे दास्यति।
२००८-०८-१८ सोमवासरः (2008-08-18 Monday)
अद्य वृद्धानां जनानां कथम् तेषां आध्यात्मिकाय विकासाय सहाय्यं कर्तव्यम् इति विषये एकं सम्मेलनम् आरब्धवान्। सम्मेलनस्य अद्य स्वागतसमारोहः आसीत्। अहं मम भार्यया मीताया सह तस्मिन् समारोहे अगच्छम्। मीता अर्धहोरापर्यन्तम् एका प्रख्याता वितन्तुक-संवाददातया सह अजल्पत् किन्तु मीता ना अजानत् तस्याः संवादी का अस्ति इति। स्वागतसमारोहस्य परम् आवां रात्रौ नववादने गृहं प्रत्यागच्छताम्।
२००८-०८-१७ रविवासरः (2008-08-17 Sunday)
अद्य अहं मम भार्यया सह तस्याः भ्रातुः नेहलस्य गृहम् अगच्छम्। नेहलस्य गृहे अधुना तस्य माता तस्य श्वशुरः स्वश्रूः च सन्ति। तैः सह वयं भोजनम् अकुर्मः। नेहलस्य भार्या सुस्वादुं भोजनं पचति।
२००८-०८-१६ शनिवासरः (2008-08-16 Saturday)
१४ सितम्बरः इति हिन्दीदिवसः अस्ति। तस्य दिवसस्य उत्सवः कथं करिष्यामः इति चर्चयितुं अद्य एकं मेलनम् आसीत्। तस्मिन् मेलने अहं सन्तोषवर्यः रिचर्डवर्यः च आसन्। रिचर्डवर्यः ओस्ट्रेलिया-राष्ट्रीय-विश्वविद्यालये हिन्दीविभागे अस्ति। सः हिन्दीदिवसस्य उत्सवाय अतीव उत्साहितः अस्ति।
२००८-०८-१५ शुक्रवासरः (2008-08-15 Friday)
अस्माकं गृहे नीचैः कक्षे कुट्टिमानि सन्ति। उपरि कक्षे कुथाः सन्ति।
२००८-०८-१२ मङ्गलवासरः (2008-08-12 Tuesday)
अद्य केन्बरानगरे दिवसे द्विवादने हिमपातः अभवत्। अत्र प्राक् एव हिमपातः भवति। हिमपातः केवलं दशनिमिषपर्यन्तम् एव अभवत्। कदाचित् पञ्चवर्षे एकवारं ईदृशः हिमपातः भवति।
२००८-०८-१० रविवासरः (2008-08-10 Sunday)
अद्य अहं मम मित्रस्य राजीवस्य जन्मदिवस-उत्सवे सिडनीनगरम् अगच्छम्। उत्सवे सत्यनारायणकथा पूजा च कृता विष्णुसहस्रनामस्य पाठः च कृतः। राजीवस्य परिवारः पूजायाम् आसीत्। सायंकाले अहं राजीवः विलियमः लोयडः च एकां भारतीयां भोजनशालां गतवन्तः। तत्र भोजनं खादित्वा अहम् अस्वस्थः अभवम्। मम आहारः अद्युना अल्पहारः एव अस्ति अहं तैलाक्तः उपस्करयुक्तः भोजनं न खदितुं शक्नोमि।
२००८-०८-०९ शनिवासरः (2008-08-09 Saturday)
अद्य रामचरितमानस्य-रचियतुः तुलसीदासवर्यस्य जन्मदिवसः अस्ति। मन्दिरे बालकाः भजनानि अगायन् एकः हिन्दी-नाटिका एकः संस्कृत-व्यायोगः च आस्ताम्। त्रयः कवयः स्वरचिताः कविताः पठितवन्तः। अनन्तवर्यः अहल्या-प्रसङ्गः रामचरितमानसे तथा वाल्मिकी-रामायणे कथं भिन्नः अस्ति इति वर्णितवान्। रामचरितमानसे अहल्या शिला भवति किन्तु रामायणे सा अदृश्यः भवति। रामचरितमानसे रामः शिलां स्वचरणं स्पृशति किन्तु रामायणे रामः अहल्यायाः पादौ स्पृशति।
२००८-०८-०८ शुक्रवासरः (2008-08-08 Friday)
मम मित्रस्य राजीवस्य अद्य पञ्चाशत्तमः जन्मदिवसः अस्ति। अहं शनिवासरे तस्य जन्मदिवसस्य उत्सवे सिडनीनगरं गमिष्यामि।
२००८-०८-०७ गुरुवासरः (2008-08-07 Thursday)
आवयोः पुत्रेण अद्य मेक-सङ्गणित्रं क्रीतम्। तेन इदं सङ्गणित्रं स्वसङ्गीत-रचना-कार्याय क्रीतम्। सः $1500 व्ययमकरोत्। मया सः पृष्टः कथम् ईदृशं व्ययम् अकरोः इति। सः प्रत्यावदत् - व्यवसायाय धनस्य व्ययम् आवश्यकः अस्ति इति। कदा सः $1500 अर्जयिष्यति अहं न जानामि।
२००८-०८-०६ बुधवासरः (2008-08-06 Wednesday)
गत दशभ्यः मासेभ्यः अहं प्रतिमङ्गलवासरे हिन्दी-भाषाम् अपाठयाम्। अस्मिन् सत्रे अहं हिन्दी-भाषां न पाठयिष्यमि तस्मात् अद्य माम् अवकाशः आसीत्। मया अद्य किञ्चित् दूरदर्शनम् अपश्यम्।
२००८-०८-०५ मङ्गलवासरः (2008-08-05 Tuesday)
अद्य शुक्रवासरे भविष्यमाणस्य व्यायोगस्य अन्तिमः पूर्वाभ्यासः आसीत्। सर्वे अभिनेतारः स्वपात्रं सम्यग् रूपे स्मरन्ति ते सुन्दरम् अभिनयम् अपि कुर्वन्ति। पूर्वाभ्यासः दृष्ट्वा अहम् अतीव प्रसन्नः अभवम्।
२००८-०८-०४ सोमवासरः (2008-08-04 Monday)
अद्य ज्वलिता स्वमित्रैः सह विज्ञानकेन्द्रम् अगच्छत्। ताः अष्ट बालिकाः आसन्। ताः तत्र चित्कारम् अकुर्वन् अधावन् च। अहं न जानामि अपि ताः विज्ञान-सिद्धान्ताः अशिक्षन् वा न अशिक्षन् इति।
२००८-०८-०३ रविवासरः (2008-08-03 Sunday)
अद्य राहुलवर्यः अस्माकं गृहम् आगच्छत्। सः अपि संस्कृतं शिक्षति। सः अपृच्छत् कस्मात् संस्कृतभाषायां व्य इति अस्य बाहुल्यम् अस्ति। कृपया पण्डिताः अस्मिन् विषये प्रकाशं क्षिपन्तु।२
००८-०८-०२ शनिवासरः (2008-08-02 Saturday)
आवयोः कनीयस्याः कन्यायाः जन्मदिवसः अस्ति। प्रातःकाले सर्वप्रथमे मम माता ज्वलितायाः जन्मदिवसः अस्ति इति अवदत्। मया तु तस्याः जन्मदिवसः विस्मृतः। तस्याः ज्यायान् भ्राता ज्यायसी भगिनी तस्यै उपहारम् आनीतवन्तौ।
२००८-०७-३० बुधवासरः (2008-07-30 Wednesday)
ह्यः गुर्जरप्रदेशे कर्णावतीनगरे प्रस्फोटानां विस्फोटम् अभवत्। तस्मिन् विस्फोटे पञ्चाशत् लोकाः दिवं गताः। इयं घटना अतीव दुःखकरी अस्ति। मम भ्राता स्वपरिवारेण सह कर्णावतीनगरे वसति। ते कुशलिनः सन्ति।
२००८-०७-२८ सोमवासरः (2008-07-28 Monday)
अद्य द्विवादनात् त्रिवादन-पर्यन्तं वयं एकायाः संस्कृत-लघु-नाटिकायाः अभिनयस्य पूर्वाभ्यासम् अकुर्म। सर्वे अभिनेतारः पूर्वाभ्यासे नासीत् तथापि पूर्वाभ्यासः लाभकारी आसीत्। नाटिकायां अभिनेतारः संवादाः पठिष्यन्ति ते संवादानां स्मरणं न कर्तुं शक्नुवन्ति। सर्वे अभिनेतारः विश्वविद्यालये छात्राः सन्ति।
२००८-०७-२७ रविवासरः (2008-07-27 Sunday)
अद्य तापमानम् आरामदायकम् अस्ति अनिलः अपि मन्दः अस्ति। अत्र शीत-ऋतुः अस्ति तस्मात् अद्यतनस्य वातावरणम् मनोहरं भाति। मध्याह्ने अहं मम भार्याया सह पादाभ्यां विहारं कृतवान्।
२००८-०७-२६ शनिवासरः (2008-07-26 Saturday)
अस्माकं विभागे (In our department) एका व्याख्यात्री सिसीलियावर्या अद्य व्यगच्छत्। सा स्वव्यवसायम् आरब्धवान्। व्यवसाये सा  यादृशी व्यस्ता अभवत् पाठनाय सा अवकाशं न प्राप्तवती तस्मात् सा व्यगच्छत्।
२००८-०७-२५ शुक्रवासरः (2008-07-25 Friday)
अद्य श्रीशैलेशलोढावर्यः श्री‍अरुणजेमिनीवर्यः च भारतात् अत्र केन्बरानगरम् आगम्य हास्य-कार्यक्रमम् अकुरुताम्। तौ एकलविद्यालयस्य प्रचारकरणाय सिडनीनगरम् आगच्छताम् ततः अस्माभिः तौ केन्बरानगरम् आमन्त्रितौ। कार्यक्रमः अति आनन्ददायकः आसीत्।
२००८-०७-२४ गुरुवासरः (2008-07-24 Thursday)
विंशतिः वर्षः पूर्वं यदा मया अत्र मन्दिराय कार्यम् आरब्धं तदा न अजानम् अद्य भगवत्प्राप्तिं करणस्य चिन्ता न भविष्यति किन्तु मन्दिरस्य प्रशासनं कथं करणीयम् इति जनाः विवदिष्यन्ति। अहो भाग्यम्।
२००८-०७-२३ बुधवासरः (2008-07-23 Wednesday)